क्त्वा तु वर्तते। माङो धातोः व्यतीहारे वर्तमानादुदीचाम् आचार्याणां मतेन क्त्वा प्रत्ययो भवति। अपमित्य याचते। अपमित्य हरति। अपूर्वकालत्वादप्राप्तः क्त्वा विधीयते। उदीचांग्रहणात् तु यथाप्राप्तम् अपि भवति। याचित्वा ऽपमयते। गृत्वा अपमयते। मेङः कृतात्वस्य अयं निर्देशः कृतो ज्ञापनार्थः, नानुबङ्घकृतमनेजन्तत्वम् इति। तेन दाधा घ्वदाप्
१।१।१९ इति दैपो ऽपि प्रतिषेधो भवति।
"अपमित्य" इति। "आदेच उपदेशेऽशिति"
६।१।४४ इत्यात्वम्, "कुगतिप्रादयः"
२।२।१८ इति समासः, "समासेऽनञ्पूर्वे क्त्वो ल्यप्"
७।१।३७ इति ल्यप्, "मयतेरिदन्यतरस्याम्"
६।४।७० इतीत्त्वम्, "ह्यस्वस्य पिति कृति तुक्"
६।१।६९। ननु च "समानकर्त्तृकयोः पूर्वकाले"
३।४।२१ इत्यनेनैवात्र क्त्वाप्रत्ययो भवति, अस्ति ह्रत्रापि समानकर्त्तृकत्वम्। तथा हि-- य एवापमयतेः कत्र्ता स एव याचतेः,
तत्किमर्थं विधीयते? इत्याह-- "अपूर्वकालत्वात्" इत्यादि। पूर्वं ह्रसौ याचते पश्चादपमयत इति नास्ति पूर्वकालत्वम्, तस्मादप्राप्त एव क्त्वा विधीयते। विधीयतान्नमाम; अयन्तु दोषः-- यदैवास्माद्वचनान्मयतेः क्त्वा भवति,
तदैव समानकर्त्तृकयोरित्यस्माद्वचनाद्याचतेरपि स्यात्? नैष दोष-; यस्मात् "समानकर्त्तृकयोः"
३।४।२१ इत्यत्र "उदीचाम्"
३।४।१९ इति वत्र्तते, सा च व्यवस्थितविभाषा,तेन यदा मयतेः क्त्वा भवति तदा याचतेः क्तवा न भविष्यति। "उदीचांग्रहणात्" इत्यादि। उदीचांग्रहणमिह विकल्पार्थम्। तेन यथाप्राप्तमपि पक्षे भवति। याचतेः क्त्वा। मयतेर्लडादिः।
माङिति "माङ माने" (धा।पा।११४२) इत्यस्यायं निर्देश इति कस्यचिदाशङ्का स्यात्तस्तां निराकर्त्तुमाह-- "मेङ कृतात्त्वस्यायं निर्दशः" इति।
कुतः पुनरेतदवगतम्? व्यतीहारग्रहणात्। मेङेव व्यतीहारे वत्र्तते, न माङ, तस्मान्मेङ एवायं निर्देश इति विज्ञायते। किमर्थं पुनरेवं निर्देशः कृतः,कृते यत्र सति सन्देहः स्यात्, न मेङ इत्येवासन्दिग्धः कत्र्तव्य स्यादित्यत आह-- "ज्ञापनार्थः"इति। मेङ इत्येवं निर्देशे कत्र्तव्ये यः सानुबन्धकस्य कृतात्त्वस्य निर्देशः कृतः स ज्ञापनार्थः। तेनैतज्ज्ञापयते-- "नानुबन्धकृतमनेजन्तत्वम्" इति। "तेन" इत्यादिना ज्ञापनप्रयोजनं दर्शयति। यद्यमर्थो न ज्ञाप्येत ततो हलन्तत्वाद् दैप एजन्तत्वं न स्यात्।
तत्र को दोषः? दाब्ग्रहणेन दैब्ग्रहणं न स्यात्; भिन्नेरूपत्वात्। ततश्च "दाधा घ्वदाप्"
१।१।१९ इत्यत्र दैपः प्रतिषेधो न स्यात्। अ()स्मस्त्वर्थे ज्ञापिते सति भवति॥